|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.49. अध्यायः 049
Mahabharata - Sabha Parva - Chapter Topics
श्रीहरेर्जमदग्निगृहे रामनाम्नाऽवतरणम्॥ 1॥ परशुरामेण कार्तवीर्यार्जुनहननम्॥ 2॥। त्रिस्सप्तकृत्वः क्षत्रियान्निहत्य तद्रक्तजलैः स्वपितॄणां तर्पणम्॥3॥ काश्यपायाखण्डभूमण्डलं दत्त्वा साल्वेनायोधने कुमारीणां वाण्या तं विसृज्य शस्त्रन्यासपूर्वकं तपश्चरणम्॥ 4॥
Mahabharata - Sabha Parva - Chapter Text
भीष्म उवाच॥
तथा भृगुकुले जन्म यदर्थं च महात्मनः।
जामदग्न्य इति ख्यातः प्रादुर्भावश्च वैष्णवः॥ 2-49-1(13268)
जमदग्निसुतो राजन्त्रामो नाम स वीर्यवान्।
हेहयान्तकरो राजन्स रामो बलिनां वरः॥ 2-49-2(13269)
कार्तावीर्यो महावीर्यो बलेनाप्रतिमस्तदा।
रामेण जामदग्न्येन हतो विषममाचरन्॥ 2-49-3(13270)
तं कार्तवीर्यं राजानं हेहयानामरिन्दमम्।
रथस्थं पार्थिवं रामः पातयित्वाऽवधीद्रणे॥ 2-49-4(13271)
जम्भस्य यज्ञं हत्वा स ऋत्विजश्चैव संस्तरे।
जम्भस्य मूर्ध्नि भेत्ता च हन्ता च शतदुन्दुभेः॥ 2-49-5(13272)
स एष कृष्णो गोविन्दो जातो भृगुषु वीर्यवान्।
सहस्रबाहुमुद्धर्तुं सहस्रजितमाहवे॥ 2-49-6(13273)
क्षत्रियाणां चतुष्पष्टिमयुतानि महायशाः।
सरस्वत्यां समेतानि एष वै धनुषाऽजयत्॥ 2-49-7(13274)
ब्रह्मद्विषां धे तस्मिन्महस्राणि चतुर्दश।
पुनर्जघान शूराणामतिक्रूरो रथर्षभः॥ 2-49-8(13275)
ततो राज्ञां सहस्रं स भङ्क्ता पूर्वमरिन्दमः।
सहस्रं मुसलेनाहन्सहस्रमुदकृन्तत॥ 2-49-9(13276)
चतुर्दशसहस्राणि कृणदूममपाययत्।
शिष्टान्ब्रह्मद्विषो जित्वा ततोऽस्नायत भार्गवः 2-49-10(13277)
रामरामेत्यमिक्रुष्टो ब्राह्मणैः क्षत्रियार्दितैः।
निघ्नञ्शतसहस्राणि रामः परशुनाभिभूः॥ 2-49-11(13278)
न ह्यमृष्यत तां वाचमार्तैर्भृशमुदीरिताम्।
भृगो रामाभिधावेति यदाऽक्रन्दन्द्विजातयः॥ 2-49-12(13279)
काश्मीरान्दरदान्कुन्तीन्क्षुद्रकान्मालवाञ्छवान्।
चेदिकाशिकरूशांश्च ऋषिकान्क्रथकैशिकान्॥ 2-49-13(13280)
अङ्गान्वङ्गान्कलिङ्गांश्च मागधान्काशिकोसलान्।
रात्रायणान्वीतिहोत्रान्किरातान्कार्तिकावतान्॥ 2-49-14(13281)
एतानन्यांश्च राजन्यान्देशेदेशे सहस्रशः।
निकृत्य निशितैर्बाणैः सम्प्रदाय विवस्वते॥ 2-49-15(13282)
कीर्णा क्षत्रियकोटीभिर्मेरुमन्दरभूषणा।
त्रिः सप्तकृत्वः पृथिवी तेन निःक्षत्रिया कृता॥ 2-49-16(13283)
कृत्वा निःक्षत्रियां चैव भार्गवः स महायशाः।
इन्द्रगोपकवर्णस्य जीवञ्जीवनिभस्य च॥ 2-49-17(13284)
पूरयित्वा च सरितः क्षतजस्य सरांसि च।
चकार तर्पणं वीरः पितॄणां तासु तेषु च॥ 2-49-18(13285)
सर्वानष्टादश द्वीपान्वशमानीय भार्गवः।
सोऽश्वमेधसहस्राणि नरमेधशतानि च॥ 2-49-19(13286)
इष्ट्वा सागरपर्यन्तां काश्यपाय महीं ददौ।
तस्याग्रेणानुपर्येति भूमिं कृत्वा विपांसुलाम्॥ 2-49-20(13287)
ततः कालकृतां सत्यां भार्गवाय महात्मने।
गाधामप्यत्र गायन्ति ये पुराणविदो जनाः॥ 2-49-21(13288)
वेदिमष्टादशोत्सेधां हिरण्यस्यातिपौरुषीम्।
रामेण जामदग्न्येन प्रतिजग्राह काश्यपः॥ 2-49-22(13289)
एवमिष्ट्वा महाबाहुः क्रतुभिर्भूरिदक्षिणैः।
अन्यद्वर्षशतं रामः सौभे साल्वमयोधयत्॥ 2-49-23(13290)
ततः स भृगुशार्दूलस्तं सौभं योधयन्प्रभुः।
सुबन्धुरं रथं राजन्नास्थाय भरतर्षभ॥ 2-49-24(13291)
नग्निकानां कुमारीणां गायन्तीनामुपाशृणोत्।
रामराम महाबाहो भृगूणां कीर्तिवर्धन॥ 2-49-25(13292)
त्यज शस्त्राणि सर्वाणि न त्वं सौभं वधिष्यसि।
शङ्खचक्रगदापाणिर्देवानामभयङ्गरः॥ 2-49-26(13293)
युधि प्रद्युम्नसाम्बाभ्यां कृष्णः सौभं वधिष्यति।
तच्छ्रुत्वा पुरुषव्याघ्रस्तत एव वनं ययौ॥ 2-49-27(13294)
न्यस्य सर्वाणि शस्त्राणि कालकाङ्क्षी महायशाः।
रथं सर्वायुधं चैव शरान्परशुमेव च॥ 2-49-28(13295)
धनूंष्यप्सु प्रतिष्ठाप्य रामस्तेपे परं तपः।
ह्रियं प्रज्ञां श्रियं कीर्तिं लक्ष्मीं चामित्रकर्शनः॥ 2-49-29(13296)
पञ्चाधिष्ठाय धर्मात्मा तं रथं विससर्ज ह।
आदिकाले प्रवृत्तं तु व्यभजत्करमीश्वरः॥ 2-49-30(13297)
नाघ्नतं श्रद्धया सौभं न ह्यशक्तो महायशाः।
जामदग्न्य इति ख्यातो यस्त्वयं भगवानुपिः। 2-49-31(13298)
सोऽस्य भागस्तपस्तेपे भार्गवो लोकविश्रुतः॥ ॥ 2-49-32(13299)
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि एकोनपञ्चाशोऽध्यायः॥ 49॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|